link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
pdf

Guru-Gītam

/ docs / ganapati-muni / collected-works /

                  गुरु गीतम्‌

 १  अव्यक्ताद्यत एतद्‌ व्यक्तं जातमशेषम्‌  |
        यद्‌ धत्ते तदजस्रं यत्रान्ते लयमेति  ||

 २  आधारे खलु यस्मिन्‌ गोलानां सह लक्षैः  |
        ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे  ||

 ३  सूर्यादिग्रहभासां यन्मूलं घनतेजः  |
        यद्‌ ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो  ||

 ४  ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते  |
        यज्जालेन समस्ते द्वैतेक्षाऽल्पमतीनाम्‌  ||

 ५  यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः  |
        यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः  ||

 ६  तद्‌ ब्रह्म प्रणवाख्यं cइत्ते ध्यानकृते मे  |
        अश्रान्तं रमणाख्यां बिभ्रद्‌ भातु मदिष्टाम्‌ ||

 ७  आधारे धृतमूलं हार्दाब्जे कृतवासम्‌ |
        शीर्षाब्जाय वहद्यत्‌ पष्चादिन्द्रियशक्त्‌ यै ||

 ८  दृष्ट्यां तत्र पराcयां यद्देहभ्रमकारि |
        आवृत्तं तु पुनर्यत्‌ स्वात्मैक्यानुभवाय ||

 ९  पश्यद्वा विषयौघं विश्रान्तं यदुताहो |
        मुक्त्यै संस्थितमन्तर्वृत्यैक्यानुभवेन ||

१०  आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम्‌ |
        अश्रान्तं स्फुरतात्‌ तत्‌ शुद्ध हार्दसरोजे ||

११  यद्दीपाद्रमणाख्याद्‌ व्याप्तं गाणपतीषु |
        वाणीभित्तिषु धत्ते गीताcइत्रविलासम्‌ ||

१२  यद्‌ हन्तिञ्‌ छविजालै रध्यानां तिमिराणि |
        तत्तत्त्वं स्फुरताद्वः तारधानसमाधौ ||

१३  यातायातबिहारै राधारेषु cअ शीर्षे |
        संcआरं विदधानं किं cआशेषविसारि ||

१४  आलम्बेन विहीनं व्योमामं परिपूर्णम्‌ |
        निश्शब्दं गुरुरूपं तद्‌ ब्रह्म स्फुरतान्मे ||

१५  ध्यानं भाति परोक्षं यत्तत्त्व श्रवणेन |
        यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे ||

१६  यccइन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम्‌ |
        मामावृत्य समन्ता दानन्दे निदधातु ||

१७  तारानन्दनियुक्तः प्रीत्या तस्य मतेन |
        आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम्‌ ||